বনগতাগুহা পাঠ্যাংশ- দ্বাদশ শ্রেণীর সংস্কৃত

উচ্চ মাধ্যমিক দ্বাদশ শ্রেণীর সংস্কৃত হতে বনগতাগুহা পাঠ্যাংশ টির সংস্কৃত অংশটি দেওয়া হল ।

বনগতাগুহা পাঠ্যাংশ

गद्यांश-वनगतागृहा

( रचयिता – गोविन्दकृष्ण मोदक)

पुरा पारसीकानां पुरे कश्यपोऽलिपर्वा चेति सहोदरौ वसतः स्म । तयोर्जनको नातिप्रभूतधनो वभूव। सुतयोस्तुल्यवृत्तिरसौ मृत्युं सन्निहितं प्रेक्ष्य निजं वित्तादिकं तयोः समं व्यभजत् येन तौ विभवाद्यर्जनविषये तुल्यावस्थौ स्याताम् । अथ कश्यपः कस्यचिन्महाधनस्य पुत्रीमुद्वहत् येन सः सपद्येव नगरवासिभिर्वणिग्वरैस्तुल्यविभवो वभूव । विविधैश्च विलासैः कालमनयत् । तथा हि प्रभूतधनत्वात्, ईप्सितं किमपि वस्तु तस्य दूरासदं नासीत् ।

यथालिपर्वणः, तथा तस्य श्वशुरस्यापि, अल्पमेव वित्तमासीत् । येन सः निःश्रीक उटजे कृतावासः, आत्मानं च कलत्रापत्यानि च महता कष्टेन पुपोष। असौ प्रत्यहमूषसि समुत्थाय इन्धनच्छेदनाय विपिनं व्रजति। छिन्नमिन्धनं त्रयाणां गर्दभानां पृष्ठगतं करोति । पुरमानयति । तत्र च विक्रीणीते। ततश्च लब्धेन धनेन वृत्तिं करोति ।

अथैकदालिपवी नित्यमिव वनं गतः । तत्र च पर्याप्तं काष्ठं चिच्छेदः । तत्क्षणं दूरे नभसि विसर्पत्पांसुपटलं तस्य दृश्यतामगात् । तत्र च दत्तदृष्टिरयं जज्ञौ- एष रजस्तोमः, एतमेव देशमुद्दिश्य सवेगं प्रधावतामश्वरोहाणं बलेनोत्थाप्यते । यतोऽस्मिन्देशे राजपुरुषाः न संचरन्ति ततः तुरंगसादिभिर्दस्युभिभाव्यम् । ततोऽसावीदृशं प्रच्छन्नं

किमपि स्थानं लब्धुं सर्वतो दृशं व्यापारयामास, यत्र सः चोरापक्रमणं यावत्क्षेमेण निभृतस्तिष्ठेत् ।

चोरस्तु समीपागतान्प्रेक्ष्य, असौ सपदि निकटवर्तिनं महीरुहमारुरोह । तस्य शखास्तथा विपुला: पल्लवघनाश्चासन्, यथा तत्र स्थितोऽयं स्वयं कस्यापि दृष्टिगोचरो न भवेत्। ततो नातिदूरे विशालः शिलोच्चयो वर्तते स्म ।

ऋजून्नतस्य यस्य शिखरं मनुजस्य दूरासदमासीत् । अथ ते हयस्थाः शैलस्य पादमासाद्य अवारोहन् । अलिपवी च तान्गणयित्वा विंशतिद्वयमेतानजानात् । तैः स्वस्वसप्तयो दृढ .गुल्मशाखासु बद्धाः, तेषां वल्गा अपनीताः, कण्ठेषु च धान्यस्यूता आसञ्जिताः । अथ सर्वेऽपि ते स्वस्वपर्याणगोणी: आददिरे या भारवत्तया रजतमहारजताभ्यां पूर्ण इवावभूः ।

अन्येभ्यो विशिष्टाकारस्तेषामेकतमः अलिपर्वणा नायकत्वेन गृहीतः । सः शैलाग्रभागं प्राप्नोत्, पपाठ च

स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक ।

दस्युदेव द्वारमिदं विवृतं कृपया कुरु ।।

पठितमात्र एतस्मिन्पद्ये द्वारमेकमपावृतम् । येन गुहान्तगीमी मार्गः प्रकाशतामगात् । तेन मार्गेण सवीनप्यनुचरान्प्रविष्टान्प्रेक्ष्य सोऽग्रणीः स्वयमपि प्रविष्टः । द्वारं च स्वत एव संवृतम् ।

ते चोरा: कंचितकालं गुहायामेव तस्थुः । तावत्तु अलिपवी वृक्षशाखायां स्थितः । सः चिन्तयामास यद्यहं वृक्षादवरूह्य गृहसकाशं गच्छामि, ते चोरा: गुहावहिरागच्छन्ति, अपि च प्राणसंशयं मे भवति इति बिचिन्त्य सः तत्रवतिष्ठत् । अथ केनचित्कालेन द्वारमपावृतम् । तेन च प्रथमं नायको वहिराजगाम। द्वारदेशे च स्थित्वा सोऽग्रणी: सर्वान्सहचरान् बहिर्निःसरतो ददर्श। ततश्च पद्यमेतदपाठीत्

-स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक ।

दस्युदेव द्वारमिदं संवृतं कृपया कुरु ।।

पठितमात्रेऽस्मिन्पद्ये गुहाद्वारं स्वयमेव संवव्रे । पूर्वमिवैतदपि पद्यमलिपर्व स्फुटमाकर्णयत्। तूष्णीं चावर्त्य कण्ठगतमकरोत् ।

अथ सर्वे चोराः स्वस्वाश्वानारूह्या निष्क्रान्ताः । अलिपवी स्वस्थानं न तत्याज। स हि शशङ्के सद्य एवावतरेयं चेत्, ममापक्रमणात्प्रागेव, कदाचिद्विस्मृतं किमपि वस्तु नेतुं चोरः कश्चन निवर्तेत, दृष्टमात्रं च मां बन्दीकुत्रीत इति ।

सः च चिन्तयामास- किं मया प्रोक्तेन पूर्वपद्येन द्वारमिदं विघटेत ? पश्यामि तावत् । ततः परं दैवस्यायत्तम् । एवं विचिन्त्यासौ बृक्षतोऽवतीर्य गुल्ममध्येन शैलमुखं यावद् बव्राज, पद्यं चैतप्पपाठ

स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक ।

दस्युदेव द्वारमिदं विवृतं कृपया कुरु ।

अस्मिन् गीतमात्रे द्वारं विवृतम् । गुहाभ्यन्तरं प्रविश्य अलिपवी सर्वतः राशीकृतानि भक्ष्याणि, महाघीणां चीनांशूकानां, कनकस्य रजतस्य च स्थूलस्थूलान्शलाकान्ददर्श। ततोऽसौ स्वर्णपूर्णस् तावतीरजिनगोणीराददे, यावतीर्बोढुं तस्य गर्दभाः प्रभवेयुः । ताश्च गोणीर्यातायातैद्वारदेशमानयत् ।

अथ विवृतिमन्त्रेण द्वारं विवृत्य ता गोणीर्णिष्कास्य रासभपृष्ठान्यारोप्य काण्ठैश्छादयामास । ततोऽसौ संवृतिमन्त्रं व्याजहार द्वारं च सपदि संवृतम् । ततोऽयं द्रुततरं क्रामन्नगरं निवृत्तः ॥

বনগতাগুহা পাঠ্যাংশ টির বাংলা উচ্চারণ

বনগতাগুহা পাঠ্যাংশ হতে বিভিন্ন প্রশ্ন উত্তর