বাসন্তিকস্বপ্নম্ নাটাংশ-দ্বাদশ শ্রেণীর সংস্কৃত

বাসন্তিকস্বপ্নম্ নাটাংশ

नाठ्याश

वासन्तिकस्वप्नम्

प्रथमोऽङ्कः

(राजा इन्द्रवर्मा, कनकलेखा, प्रमोदश्च) • रचयिता – गोविन्दकृष्ण मोदक

राजा :

  • प्रिये कनकलेखेऽद्य कुहूर्तेयं दवीयसी ।
  • चतुर्भिर्दिवसैभाविन्यप्यहं दीनमानसः ।।

  • वसामि मदनाक्रान्तः शशङ्कस्त्वतिनिर्घृणः।
  • यतोऽसौ क्षीयमानोऽपि क्षीयते सत्वरं न मे ।।

  • अस्मदुद्वाहमुद्दिश्य सोऽस्मि पर्युत्सुकः सखि ।
  • किं करोमि वरारोहे, नाड़िकाऽपि युगायते ।।

कनकलेखा :

वल्लभ ! दिनचतुष्टयं तु प्रायो रात्रचतुष्टयं भूत्वा क्षणमिव निद्रालुभिरस्माभिर्नीयमानमचिरेणैव दर्शमानेष्यति यस्य निशायामावयोः परिणयमहोत्सवो भविष्यति । तत् किमिति दूयते महाराजेन ।

राजा

रे प्रमोद, गच्छ सम्प्रति प्रतिरथ्य मस्मन्नगरस्य । तथा कुरुष्ब यथा सवेऽपि युवानो महोत्सवाभिनिविष्टचित्ताः परमाह्लादभरिता वतेरन् । दुःखं विद्रावय वैवस्वतनगरमावर्जय सर्वतः प्रमोदम् ।

प्रमोद :

यथाज्ञापयति देवः । (इति प्रणम्य निष्क्रान्तः)

राजा

प्रणयवति कनकलेखे, तस्मादद्य

तादृशमप्रशस्तमार्गमुज्झित्वा महोत्सवप्रमोदप्रसाधनपूर्वं त्वां परिणेष्ये ।

(नेपथ्ये पदशब्द इव निपुणं निरूप्य)

किमयमागच्छन् वृद्धः कोपशोकाविष्ट इव दृश्यते। तमनु काचिदिन्दुवदना च

(ततः प्रविशति इन्दुशमी कोमुदी च)

इन्दुशमी:

(हस्तमु द्यभ्य) विजयतामस्माकमबनिपः ।

राजा

नमो भवत इन्दुशर्मन्, कथं कार्यातुर इब दृश्यते भवान् ?

न्दुशमी

राजन्नियं में दुहिता मदाज्ञामुल्लङ्घयेदित्यतिदुःखितोऽहम् । महाराज, दीयतां दयार्द्रं चित्तम् ।

यावदियं वराकी मकरन्दमुपयम्य मन्मतन्नानुवर्तते तावदस्मद्देशाचारमनुसृत्य पित्राज्ञाहमतिवर्तिनोपत्यस्य यावान्दन्डो विहितस्तावन्तमेषाऽनुभवत्वित्याज्ञां दत्त्वाऽहमनुग्राह्यपक्षे गणयितब्य इति प्रार्थये।

राजा

(कोमुर्दी प्रति) कथय वासु, किं वा युक्तं समयबिरुद्धाचरणम्। अपि च, रमणीयोऽयं तरुणस्ते वरो मकरन्दः ।

कौमुदी :

महीपते, ! तथैव वसन्तोऽपि ।

राजा

वालिके, ! वसन्तः प्रियदर्शनोऽपि पितृपक्षपातोऽस्मिन्निति तव प्रेयान्मकरन्द एव ।

कौमुदी :

यदि मे जनको वीक्षते मदीक्षणेनैनं वसन्तं तदा वहुमानयिष्यति स एव मन्मानसम् ।

राजा

परं तद्विवेचनामाश्रित्य खलु वीक्षणीयं त्वया ।

कौमुदी :

करुणानिधे क्षम्यतां दासजन स्यायमपराधः । न जाने केन वा कारणेन मे मनस्येता दृशनिर्णयो जातः । विस्मृतं च मया किं कर्तब्यम् ।

राजा

अयि भद्रे, दर्शनीयं ते वपुः, आयातयामंवयः। यदि पितरं नानुवर्तसे तदा शरणं भवति मरणमथवा यावज्जीवं परिणयाकरणम् । एतादृशकुलसमयाचारविरुद्धगामिन्या सुखं नाम कथं भवेत् । एषा ते मतिर्न कल्याणी, न कदापि सुखावहा। अतः जनकस्य ते आदेशः पालनीयः ।

कौमुदी :

महाराज, वसन्तं विहाय नान्यं पश्येयम् । तदर्थं जीवितमपि त्यजेयम् । यावदायुः परिणयं विनापि वसेयम् । एष एव निश्चयोऽस्या मन्दभागिन्याः ।

(नेपथ्ये मृदङ्गध्वनिः)

कणकलेखा :

राजन्, सङ्गीतशालाभ्यन्तरे वहवः अस्मदागमनंप्रतीक्षन्ते ।

राजाः परंकार्यपरतया विस्मृतमेतत्सर्वमपि तत्त्वरितं गम्यते । अयि कौमुदि, सम्यगालोच्य तातमेबानुसर नोचेद्रज मरणम्। अस्मद्दण्डनीतिरित्यवधार्यताम् । प्रिये कनकलेखे, सम्प्रति साधयामः ।

(सर्वे निष्क्रान्ताः)