দশকুমারচরিতম্ পাঠ্যাংশ- একাদশ শ্রেণীর সংস্কৃত

একাদশ শ্রেণীর পাঠ্যাংশ দশকুমারচরিতম্ অনুবাদ আলোচনা করা হল

॥दशकुमारचरितम्॥ पूर्वपीठिका

प्रथमोच्छ्वासः

ब्रह्माण्डच्छत्रदण्डः श्वतधृतिभवनाम्भोरुहो नालदण्डः

क्षोणीनौकूपदण्डः क्षरदमरसरित्वट्टिकाकेतुदण्डः।

ज्योतिश्वक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः

श्रेयस्त्रैविक्रमस्ते वितरतु विदुधद्वेषिणां कालदण्डः ॥

अस्ति समस्तनगरीनिकषायमाणा शश्वदगप्यपण्यविस्तारितमणिगणादिवस्तुजातव्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी। तत्र वीरभटपटलोत्तरङ्गतुरङ्गकुञ्जरम करभीषणसकलरिपुगणकटकजलनिधिमथनमन्दरायमाणसमुद्दण्डभुजदण्डः,

पुरंदरपुराङ्गणवनविहरणपरायणगीर्वाणतरुणगणिकागणजेगीयमानयातिमानया शरदिन्दुकुन्दघनसारनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशमूर्त्या

रचितदिगन्तरालपूर्त्याकीर्त्याभितः सुरभितः,

स्वलोकशिखरोरुचिररत्नरत्नाकरवेलामेखलायितधरणीरमणीसौभाग्यभोगभाग्यवान, अनवरतयागदक्षिणारक्षितशिष्टविशिष्टविद्या संभारभासुरभूसुरनिकरः,

विरचितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, राजहंसो नाम घनदर्पकंदर्पसौन्दर्यहृद्यनिरवद्यरूपो भूपो बभूव। तस्य वसुमती नाम सुमती लीलावती कुलशेखरमणी रमणी बभूव ।

तस्य राज्ञः परमविधेया धर्मपालपद्मोद्भवसितवर्मनामधेया अमात्यास्त्रयोऽभुवन् । तेषां सितवर्मणः सुमतिसत्यवर्माणौ, धर्मपालस्य सुमन्त्रसुमित्रकामपालाः, पद्मोद्भवस्य सुश्रुतरत्नोद्भवाविति तनयाः समभुवन् । तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्धा तीर्थयात्राभिलाषी देशान्तरमगमत् ।

विटनटवारनारीपरायणो दुर्विनीतः कामपालो जनकाग्रजन्मनोः शासनमतिक्रम्य भुवं बधाम। रत्नोद्भवोऽपि वाणिज्यनिपुणतया पारावारतरणमकरोत् । इतरे मन्त्रिसूनवः पुरन्दरपुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन् । ततः

कदाचिन्नानाविधमहदायुधनैपुण्यरचितागण्यजन्यराजन्यमौलिपालिनिहितसायको

मगधनायको मालवैश्वरं प्रत्यग्रसंङ्गामघस्मरं समुत्कटमानसारं मानसारं प्रति सहेलन्यक्कृतजलधिनिर्घोषाहंकारेण भेरीझकारेण हठिकाकर्णनाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं विपूर्णयन्निजभरनमन्मेदिनीभरेणायस्तभुजगराजमस्तकबलेन चतुरङ्गश्चलेन

संयुतः सङ्घ माभिलाषेण रोषेण महताविष्टो निर्ययौ । मालवनायोऽप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम तयोर्मध्ये शस्त्राशस्त्रि हस्ताहस्ति परस्पराभिहतसैन्यं जन्यमजनि। तत्र मगधराजः प्रक्षीणसकलसैन्यमण्डलं मालवराजं जीवग्राहमभिगृह्य कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास ।

দশকুমারচরিতম্ পাঠ্যাংশ হতে প্রশ্ন ও উত্তর গুলি দেখুন