ভারতবিবেকম্ নাট্যাংশ

একাদশ শ্রেণীর সংস্কৃত ভারতবিবেকম্ নাট্যাংশ টি দেওয়া হল এবং নিচে প্রশ্ন ও উত্তর এর লিংক দেওয়া আছে । ড:যতীন্দ্রবিমল চৌধুরী রচিত ভারতবিবেকম্ নাটকের প্রথম দৃশ্য শ্রীরামকৃষ্ণেন সহ শ্রী নরেন্দ্রস্য সাক্ষাতকারঃ নামে উচ্চ মাধ্যমিক একাদশ শ্রেণীর সিলেবাসে অন্তর্ভুক্ত হয়েছে। Here is the Sanskrit Bharatavibekam of class XI and below is a link to questions and answers. The first scene of the play Bharatvibekam, written by Dr. Jatindrabimal Chowdhury, has been included in the syllabus of higher secondary class XI under the name Sri Ramakrishnan along with Shri Narendrasya Interview:

Bharatavibekam class XI Sanskrit and below is a link to questions and answers. The first scene of the play Bharatvibekam, written by Dr. Jatindrabimal Chowdhury, has been included in the syllabus of higher secondary class XI under the name শ্রীরামকৃষ্ণেন সহ শ্রী নরেন্দ্রস্য সাক্ষাতকারঃ:

গদ্যাংশপদ্যাংশনাট্যাংশ
ব্রাহ্মণচৌরপিশাচকথাদশাবতারস্তোত্রম্ভারতবিবেকম্ 
দশকুমারচরিতম্মেঘদূতম্

ভারতবিবেকম্ নাট্যাংশ (একাদশ শ্রেণীর সংস্কৃত)

॥भारत-विवेकम्॥ ভারতবিবেকম্

(प्रथमदृश्यम्)

श्रीरामकृष्णेन सह श्रीनरेन्द्रस्य साक्षातकारः

  • स्थानम् – कलिकाता- सिमुलियाञ्चले श्रीसुरेन्द्रनाथ-मित्रस्य गृहम् ।
  • समयः – रात्रेः सप्तमघटिका (स्त्रीष्टाव्द:१८८१)
  • श्रीरामकृष्णदेवः, श्रीसुरेन्द्रनाथमित्रः, भक्ताश्च ।

श्रीरामकृष्णः

मातः! मातस्तुभ्यं नमः ।

जयति जयति यति-जनगति-जननी भवतारिणी।

नियत-विहित-सुतशतहित-बन्ध-मोक्षकारिणी॥

गृह-शतशत-विरचनरत-कोटिंदुःखहारिणी।

ममताघन-करुणानयन-तृषित-शान्तिकारिणी ॥

सदाऽकारणकृपाकारिणि!

तनय-तनय-पुण्यविनय-धन्यं मां कुरु जननि!

मातः ! जगतः शतशतक्लेशाः मम हृदयं विदारयन्ति । त्वं कृपया साधनशतं मां विज्ञापितवती । किन्तु कुत्र ममोत्तरसाधकाः ? उत्तरसाधकनित्यदर्शनलालसा हृदयं मम निरन्तरं क्लिश्नाति । जगज्जननि ! कुत्र मम शिवसमोत्तरसाधको यदर्थमहं नित्यमपेक्षे?

सुरेन्द्रनाथः-

(स्वगतम्) अहो! मधुरेयं सन्ध्या ! पुनः गुरुदेवस्यअनिर्वचनीयो महिमा! यत्रैव एष तिष्ठति, तत्स्थानं क्षणाज्जायते देवमन्दिरसदृशम् । शरीरादस्य निरन्तरं प्रसरति ज्योतिर्धारा, वाक्यान्निर्गलति निरन्तर प्रवाहि-सुरधनिंधारेव सुधा, हास्यान्निः सरति अरुणकिरणराशिः।

श्रीरामकृष्णः–

(सुरेन्द्रमुद्दिश्य) सुरेन्द्रा भृशं वाञ्छामि मातृकास्तुतिं श्रोतुम्। कश्चन तरुणगायकवरस्तव गृहसकाशे विद्यते वा? तस्मै येतो ममोत्कण्ठते।

सुरेन्द्रः-

देवा विद्यते मम गृहसकाशे नरेन्द्रनाथनामधेयः दत्तवंशोद्भवोयुवकः। साम्प्रतं सः विद्यार्जनरतः ब्राह्ममन्दिरादिकञ्च गच्छति। तरुण वयसि वर्तमानोऽपि असौ सत्यमेव संगीतनिपुणः ।

श्रीरामकृष्णः-

(हर्षान्वितः) किं नाम? नरेन्द्र इति? सत्यं सर्वनरश्रेष्ठ एवासाविति कथं महां प्रतिभाति? अथवाऽकारणं वा स्निात्यस्मिन्मम मनः। अहो ! अपूर्व वस्तु खलु मनो यदनागतकारणं सूचयति ।

(जननीं भवतारिणीमुद्दिश्य बद्धाञ्जलिर्भूत्वा) जननि । अप्येष नरेन्द्रो वरणीयतमो मम मानसपुत्रः स्यात् । मातःकृपामयि ! कदापि त्वं मृषा न निर्दिशसि सत्वरं ब्रूहि मातः। एष नरेन्द्र एवं मम श्रेष्ठ उत्तरसाधकः स्यात् ?

(सुरेन्द्रमुद्दिश्य) सुरेन्द्रा नरेन्द्रनामधारिणे तरुणाय सन्देश में प्रेषय। तदर्शनायाहमाकुलो वर्ते।

सुरेन्द्रः-

(विस्मयमापन्नः) नैष नरेन्द्रो गुरुदेवपरिजातः । किन्तु कथमयं गुरुदेवो में तस्मै भृशमुत्कण्ठते ? अथवा गहना खलुमहतां चित्तवृत्ति

(श्रीरामकृष्णमुद्दिश्य) देव अहं यामि। भवता क्षणमास्यताम् अचिरेण प्रत्यावर्तिष्येऽहम् ।

श्रीरामकृष्ण:-

अहो! तरुण एवं शिक्षणीयः। कोमलहृदयत्वात्सर्वमेव तस्य हृदि भवत्यङ्कितम्। काइक्षाम्यहं दुष्ट जटाजूट-धारिणं सर्वभारवाहिनं सुरधनि-कलकलधारामलिनं शिवं विश्वस्य शङ्करं ममोत्तरसाधकम्।

(सुरेन्द्रनाथो नरेन्द्रेण सह प्रत्यावृत्तः)

नरेन्द्रनाथ:-

(प्रविश्य) साधवे नमः।

(श्रीरामकृष्णस्तं निपुणं पश्यति। नरेन्द्रश्च किञ्चित्पर्याकुलो दृश्यते ।

श्रीरामकृष्ण:-

(स्वगतम्) एष एव स वालको यदर्थमहं नक्तन्दिवं प्रार्थये। कोमलकुञ्चितकेशदाम-सुसज्जशिरस्काकर्ण-विस्फारितनयनोऽयं दर्शनदानेनैव मामतुलनं नन्दयति हृदयतटिनी मम सगर्जन प्रवहतितरां सागरसंगमे सागरजलस्फीतिप्रभावात्यथागङ्गतोयधारा। नटनृत्यचटुलमिव भासते मम चित्तस्थलं यत्र मम स्मृतिगुल्मदलं कम्पते मलयपवनस्पर्शत्पुलकाकुलं वेणुवनं यथा ।

नरेन्द्रनाथः-

(स्वगतम्) अहो! कथमहं नात्मानं प्रशमयितुं समर्थोऽस्मि! नाहं स्वीकरोमि स्वीकरिष्यामि वा तथापि हृदयं मे एष एव हृदयानन्दश्चन्द्रोयस्यानन्दरश्मींश्चकोर इवाहं पिवामि। कोऽसौ महानुभावः कोटिसूर्यसमप्रभः अथ च कोटिचन्द्रसुशीतलो राजते धरातले ? अथवा क्षणिकः, क्षणिक एव मे चित्तविकारः ?मानवशरीरे भागवतसत्तारोपं नाहं कदापि स्वीकरिष्यामि। धिङ्मम विद्यां यदित्थमपप्रलापमिवाहं कृतवान्, धिङ्माम् ।

श्रीरामकृष्णः –

(स्वगतम्) निवारिता मम दीर्घपिपासा श्रेष्ठभक्तसन्तानवदनकमलनिरीक्षणेन, एष एव मम सर्वशुभङ्करसदाशिव आकर्णविस्तृतनयनेन्दीवरो भुजयुगनिन्दित-करिकर युगधारी व्यूढोरस्कः सदाशिवःअधुना सुरेन्द्रेण सह समायातः । अहो ! आनन्दविह्वलः किमहं करिष्यामि !(आनन्देननृत्यति)

नरेन्द्रनाथ:-

(स्वगतम्) कथमुन्मत्त इव नरीनृत्यमान एष जनो मम हृदयं पर्याकुलयति। अथवैष मम चित्तस्य भ्रमः।

सुरेन्द्रः–

भगवन्! व्यामोह इव मम समुपजातो यदहमेनं नरेन्द्रं पितृपरिचयादिक्रमेण भवत्सकाशे नासादितवान्।

श्रीरामकृष्णः-

सुरेन्द्र। जन्मजन्मान्तरपरिचितो जनः कथं तद्दत्तपरिचयापेक्षी भवेयम्? नायमुद्वेगकारणम्! (नरेन्द्रमुद्दिश्य नरेन्द्रा

नरेन्द्रः-

जननी मयि प्रसीदतु (गायति)

मनो निभ्रऩं पश्य श्यामां जननीम्

श्मशनवासिनीं नृमुण्डमालिनीम्।

हिमाचलनन्दिनीं बिश्वपालिनीम् ।

मनो मेऽहर्निशं पश्य जगद्धात्रीं भबबन्धहारिणी

शक्ऩिस्वरुपिणीं जननीम् ।।

श्रीरामकृष्णः-

नरेन्द्र! अपूर्वःतव कण्ठस्वरः अपरिमितञ्च भक्तिमाहात्म्यम्।

(स्वगतम्) देविभवतारिणि! त्वं कृपापरायणा यथैष वरेण्यसन्तानो सर्वकालिमानं शक्नुयात्।

( यतीन्द्रविमल विरचितात् भारत-विवेकमिति नाटयग्रन्थाद्गृहीतम्।)

ভারতবিবেকম্ নাট্যাংশ হতে প্রশ্ন ও উত্তর

একাদশ শ্রেণীদ্বাদশ শ্রেণী
Class XI SyllabusHS Syllabus
Class XI Question 2015HS Question 2015
Class XI Question 2016HS Question 2016
Class XI Question 2017HS Question 2017
Class XI Question 2018HS Question 2018
Class XI Question 2019HS Question 2019
2020 (NO EXAM)2020 (NO EXAM)
2021 (NO EXAM)2021 (NO EXAM)
Class XI Question 2022HS Question 2022
একাদশ শ্রেণী সাজেশনদ্বাদশ শ্রেণী সাজেশন
একাদশ শ্রেণীর সংস্কৃত সাজেশন 2023HS Sanskrit Suggestion 2023
MCQ সাজেশনদ্বাদশ শ্রেণীর সংস্কৃত প্রকল্প
ছোটো প্রশ্ন উত্তর সাজেশনবাংলা থেকে সংস্কৃত অনুবাদ সাজেশন
বোধ পরীক্ষণ সাজেশনসংস্কৃত প্রবন্ধ রচনা সাজেশন
ব্যাকরণ সাজেশনব্যাকরণ সাজেশন

Comments